
Kim Karishyaami (Annamayya Keerthana) - Sanskrit Lyrics (Text)
Annamayya Keerthanas Kim Karishyaami - Sanskrit Script
रचन: अन्नमाचार्य
किं करिष्यामि किं करोमि बहुल-
शङ्कासमाधानजाड्यं वहामि ॥
नारायाणं जगन्नाथं त्रिलोकैक-
पारायणं भक्तपावनम् ।
दूरीकरोम्यहं दुरितदूरेण सं-
सारसागरमग्नचञ्चलत्वेन ॥
तिरुवेङ्कटाचलाधीश्वरं करिराज- ।
वरदं शरणागतवत्सलम् ।
परमपुरुषं कृपाभरणं न भजामि
मरणभवदेहाभिमानं वहामि॥
No comments:
Post a Comment