Pages

Sri Venkateswara Vajra Kavacha Stotram in Sanskrit


Sri Venkateswara Vajra Kavacha Stotram - Sanskrit Lyrics (Text)

Sri Venkateswara Vajra Kavacha Stotram - Sanskrit Script

रचन: ऋषि मार्कण्डेय

मार्कण्डेय उवाच

नारायणं परब्रह्म सर्वकारण कारकं
प्रपद्ये वेङ्कटेशाख्यां तदेव कवचं मम

सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः

आकाशराट् सुतानाथ आत्मानं मे सदावतु
देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः

सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु

य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः

इति श्री वेङ्कटेस्वर वज्रकवचस्तोत्रं सम्पूर्णम् ॥

No comments:

Post a Comment